Skip to main content

श्री दत्तात्रेय कविता १ ते ३४

कवि सुधांशु द्वारा लिखित मराठी दत्त-गीतांचा संस्कृत अनुवाद

(तपासणे -- अश्विनीने टाइप केले)

संस्कृत कविता-
) दत्त- दिगम्बर इष्ट- दैवतम् धुमाळी ।
दत्त- दिगम्बर इष्ट- दैवतम् ।
विराजते मेमह्दये नित्यम् ।।ध्रु.।।
अनसूयायाः सत्त्वम् अदभुतम्
त्रिभिश्व देवैर्वृतं शिशुत्वम् ।
चारूस्त्रिमूर्तिरवतारो~यं त्रिभुवनकीर्तिः रक्षित दीनम् ।।१।।
त्रीणि शिरांसि च तत्करषट्कम्
विलसति वदने मधुर- सुहास्यम् ।
जूटशिरः पादुकापदाब्जो भस्मविलेपितकान्तिर्नूनम् ।।२।।
दृष्ट्वा वत्सलसुन्दरमूर्तिम्
हर्षाश्रुजलं स्नपयति दृष्टिम् ।
यान्त्युदयं किल सात्तिवकभावाः शनैश्व विलयं याति ममत्वम् ।।३।।
गुरूर्योगिवर प्रभुरयोगिवर- अनुसूयासुत-
।।श्रीगुरूः शरणं मम ।।
।। दत्तगुरूः शरणं मम ।।

--------------------  

) अस्ति नामधारकाय कथिता ।

अस्ति नामधारकाय कथिता ।
सिध्दैः सुरसा श्रीदत्तकथा ।। ध्रु .।।
सिध्दमुनेर्दर्शनात् पुलकितम्
अहो नामधारकस्य चित्तम्
मधुपानार्थं भ्राम्यति गुञ्जन् भ्रमरो भूत्वा सिध्दं परितः ।।१।।
जलदः सिध्दमुनीशो मधुरम्
कुरूते दत्तचरित- जलवर्षम्
नामधारकस्तृषितचातको जलप्राशनात् जातस्तृप्तः ।।२।।
रम्यतपोवनमिव दत्तकथा
नामधरः साधकसदभक्तः
ददन् प्रसांद गुरूचरितमयं पुनाति तं सिध्दमुनिस्त्राता ।।३।।

सुन्दरकुसुमरसालः सिध्दः
स्थितो नामधारकस्य सुखदः
गुरूचरितस्य प्रीतिच्छत्रं सिध्दस्तस्मिन् कुरूते प्रीतः ।।४।।
दत्तचरित्रामृतमतिमधुरम्
सिध्दमुनिः पाययति सलीलम्
समाधिलाभः शिष्यवरस्य स्वयमाकण्ठं सुधां च पिबतः ।।५।।
पुलकितरोमा तनूः सर्वथा
योगमग्नः सहसा जातः
अलौकिकं तद् दृश्यं पश्यन् सिध्दमुनिर्विश्वमपि विस्मृतः ।।६।।
------ ---------------
) पतिव्रतायाः यस्याः पुण्यं जगतीमुध्दरते ।
पतिव्रतायाः पुण्यं यस्या जगतीमुध्दरते ।
सति जयति च जयति विजयते ।।ध्रु. ।।
शान्तं रम्यं शीतलम् वनं
पावनमत्रेस्तपसः स्थानम्
ध्वनिरनहितो यत्र हि दिव्योः सदा झणढकुरूते ।
मुनिगृहभूषणमनसूया सा
पतिपरायणा सतींव्रतैषा सा
यदाज्ञया तपतश्वन्द्राकौं पवनः सञ्चरते ।।२।।
धरा यदर्थं जाता मृदुला
अग्निर्यास्याः कृते शीतलः
आज्ञामनिशं सादरमस्या यमः शिरसि कुरूते ।।३।।
पतिव्रताया दृष्ट्वा सत्तवम्
ह्तं हि देवराणां सत्तवम्
सतीच्छया केवलमवतारं दत्तः स्वीकुरूते ।। ४।।

------- ------- -----------
) तपोभुवि अत्रिमुनेराश्रमः ।
तपोभूम्यामत्रेराश्रमः ।
मनोज्ञः स्वर्गसधरासंगमः ।।ध्रु. ।।
उषःकालसममेव दिशासु
मंजुलकूजनरताविहगेषु
कमलिनीषु- फुल्लासु सरःसु स्वयं च नश्यति तमः ।।१।।
तपोवने पर्णकुटेरमलः
ऊँ कारध्वनिरेति निर्मलः
पवित्रतायाः सुमधुरगन्धो दिगन्तगो निरूपमः ।।२।।
स्नानादिविधिं निवत्य सरसि
को~पि यतिरयं तपोधनर्षिः
दण्डकमण्डलुधरस्तेजसा विलसति रविणा समः ।।३।।
सुमानि भक्तेरिह विकसन्ति
श्रुतिघोषा गगने निनदन्ति
अत्र दाहकात् यज्ञतेजसो भवति सलज्जो यमः ।।४।।
गोभिश्वरन्ति व्याघ्रा हिंस्राः
विहरन्ति सुखं हरिणशावकाः
गरूडसर्पयोर्भवति ह्दययोः सख्यसुखस्योदगमः ।।५।।
अत्र राजतो ज्ञानविरक्ती
गृहस्य शोभा क्षमया शान्तिः
तपोधनस्य द्वारि कुसुमितो नन्विह कल्पद्रुमः ।।६।।
-------------------------------

) अनसूयागृहवार्ता ।

अनुसूयागृहवार्ता ।
भर्ता त्रैलोक्यस्य प्राप्तः ।।ध्रु. ।।
धुनुत कुंकुमं धुनुत सुमानि
जयध्वनिर्नदतात् भुवनानि
ब्रह्म पूर्णमिदमागतं भुवं धर्मरक्षणे जगतः ।।१।।
वर्षत गन्धं सुमवृन्दानि ।
समुदमुञ्जत विमलजलानि ।
पवनलहर्यो नीयतां शुभा ग्रामात् ग्रामं वार्ता ।।२।।
प्रकटितमद्य जगति वैराग्यम्
फुल्लं दिव्यतपस्याकुसुमम्
योगसुगन्धप्रसरो मधुरस्त्रिभुवनह्दयं व्याप्तः ।।३।।
अयं सदगुरूस्त्रिलोकनाथः
चराचराणामयमुध्दाती
श्रीयोगीश्वर एष योगिनां प्रभुस्त्रिभुवनख्यातः ।।४।।


-------------------------------

) अत्रिनन्दन ! स्वापिहि बाल रे ।
अत्रिनन्दन ! स्वापिहि बाल रे ।
योगिबाल मुनिह्दयहर्ष रे ।।ध्रु.।।
शान्तिः पूर्णा ऋन्तिसंगता
तपस्तेजसा नयने स्फुरतः
ऊँ इति घोषस्तव वदने रे ।।१।।
वदने श्रीगंगामांगल्यम्
उषः स्मितं शुभंकर च मृदुलम्
ऋकस्वरैर्युतम् (ऋकस्वरैःयुतम्) तव रुदितं रे ।।२।।
विधिहीरिइरौ ब्रह्म शाश्वतम्
अनसूयातनयो भवसि त्वम्
योगदोल आश्रमभुवने रे ।।३।।
*----------*००००००००*------------*

) श्रीयोगीशाः प्रस्थितः ।
(श्रीयोगीशो यात्ययम्)
श्रीयोगीशः प्रस्थितः ।
दिव्य-शरीरे स्निग्धं विलसति उग्रतपः सर्वतः ।।ध्रु.।।

दिगम्बरधरः कान्तिसुन्दरः
भस्मविलेपितसर्वशरीरः
विरक्तिगन्धः सुभगो नूनं प्रसरति यं परितः ।।१।।
सुखपभोगे पूर्णविरक्तिः
आनन्दमयी सदा~स्य वृत्तिः
स्फटिकविशुध्दे विमले ह्दये शान्तिजलस्त्रोतः ।।२।।
प्रतिचरणं भूमिः पुण्यवती
धरा प्रतिश्वसनं गन्धवती
दर्शनमात्रं चराचरो~यं प्रीतिरसस्नातः ।।३।।

जगदुध्दारार्थमहो सदयः
प्रस्थितो~यमत्रि-मुनेस्तनयः (आत्रिमुनेः प्रस्थितो~स्ति (हितनय)) आणि प्रस्थितोड~स्ति अत्रिमुने सानयः )
सुमवर्ष कर्तु सुरसंघो गगने संमिलितः ।।४।।
*-------------* ०००००००००००००*-----------
) धन्यः सह्यगिरीजीतः ।
धन्यः सह्यगिरिजीतः ।
यत्र योगिराड् अनिशं निवसति दिगम्बरः श्रीगुरूदत्तः ।।ध्रु. ।।
विमलजलनिधिर्विमलो वातः
विमलसुरभिसुमयुतास्तरूलताः
विहंगमगणो मञ्जु सुविमलं यत्र हि अध्यात्मोदगाता ।।१।।
इह तपस्विनो गंगास्नानम्
पण्ढर्यां गन्धानुलेपनम्
प्रीतिसंगमे सन्ध्यां कुरूते प्रीतः सह्यासनिस्थितः ।।२।।
करवीरं गच्छति भिक्षार्थम्
पाञ्चालेश्वरम् अशनस्थानम्
पाश्चिमजलधौ अर्घ्यवितरणं, सह्यमञ्जके शयनस्थः ।।३।।
सततं सर्वत्रैव विचरति
ज्ञानं त्रैलोक्याय वितरति
विविक्तस्थले तपः सेवते सनुन सह्यगिरिकुहरस्थः ।।४।।
*------------* ०००००००००००००००*-----------

) सह्यगिरौ कार्तवीर्यसम्राट् ।
सह्यगिरौ कार्तवीर्यसम्राट् प्रार्थयते~त्रिसुतम् ।
देहि दर्शनं देव मह्यम् ।।ध्रु. ।।
अमर्यादसुखभोगा भुक्ताः
विषयकर्दमोद्वीग्नं चेतः
ज्ञातं चरणयुगं ते कुर्यात् भवचिन्तानाशनम् ।।१।।
निजभक्तानां मातृगृहं त्वम्
किं न पूरयसि मन्मनोरथम्
भक्तोद्वारकजयध्वजात् तव विराजते त्रिभुवनम् ।।२।।
मत्वा त्वां खलु अनन्यशरणम्
सदय ! कथं त्वत्पदविस्मरण्
समूलमरणभयं ह्त्वा मां सौख्यं नय दुःखितम् ।।३।।
प्राभो सदगुरो दयाघनस्त्वम्
चातको~स्मि त्वत्पदलीनो~हम्
चिरसुखजलदो भव दीनार्थं प्रापय तस्या~मृतम् ।।४।।
सकृत् पश्य करूणादृष्टया माम्
स्नपय कृपामृतवृष्टया खलु माम्
कदा~पि नो यच्छ मे खिन्नतां त्वं मे गुरूदैवतम् ।।५।।
भक्तिं दृष्ट्वा दत्तो हसति
शिरसि कृपावृष्टिं च करोति
भक्तो~ष्टाभिर्विकसति भावैः सुफलमस्य जीवितम् ।।६।।
*------------*०००००००००००००००००*-------------------

१०) अर्जुनाकलय योगसम्पदम् ।
अर्जुनाकालय योगसम्पदम् ।
उध्दरेत् असौ मनुजजीवनम् ।। ध्रु.।।
प्राणायामासनयमनियमाः
प्रत्याहारध्यानधारणाः
समाधिरित्यष्टविधं योगं जानीष्वार्जुन शुभम् ।।१।।
सत्याहिंसास्तेयादिगुणान्
एधि साधकः सम्पाद्य यमान्
उपवासादिक- नियमपालनं तदनु साध्यमासनम् ।।२।।
दशेन्द्रियाणां कार्यं दमनम्
चित्तस्य दृढं स्यादैकाग्यम्
पूरककुम्भकरेचकादिभिर्विजेयमसुपञ्चकम् ।।३।।
जागार्ति यदा शुभकुण्डलिनी
मनसो लाभः स्थितिश्चोन्मनी
प्रत्याहारात् प्रज्ञां स्थिरयन् वरय धारणां दृढम् ।।४।।
विस्मर्तव्यो ध्याता ध्यानम्
निर्गुणे~स्तु सगुणं रममाणम्
तदनु समाधिर्विकाररहितो भावो ब्रह्म स्वयम्।।५।।
परमसुखमिदं प्रभो दुर्लभम्
लेभे गुरूपुत्रो गुप्तधनम्
त्रिभुवनपूज्यां सकलां मुक्तिं सलीलमाप स्वयम् ।।६।।
स्वयं योगिराजो व्याख्याति
अर्जुनह्दये ज्ञानमुदेति
समाधिमग्नः सो~पि तत्क्षणं धनमाप्नोत् चिरसुखम ।।७।।
*-----------*००००००००००००*-------------
११) यो भक्तान् दत्तस्य स्मरति ।
यो भक्तान् दत्तस्य स्मरति ।
जन्ममृत्युभयमस्य. विनश्यति ।।ध्रु.।।
सहस्त्रार्जुनः स कार्तवीर्यः
दत्तकृपाभुक्तराज्यविभवः
योगज्ञानयुतः स राजते स्वात्मानन्दे सदैव मज्जति ।।१।।
मदालसासुत आसीत् भूपः
अलर्क इति; तस्मिन् दत्तकृपा
महायोगमनिशं च साधयन् ध्वनिमनाहतं सदा निशाम्यति ।।२।।
नृपो यदुः श्रीगुरोश्व भक्तः
पुण्यवान् दयोदधिरिव मुर्तः
योगबलेनापारदुस्तरं भवसागरमेष समुत्तरति ।।३।।
स्वामि- जनार्दन एकतापसः
विभवे~प्यलभत विरक्तिमेषः
विकासयति कैवल्यारामं जनश्विदानन्दे~सौ सिध्यति ।।४।।
महान् योगिराज एकनाथः
स्वात्मसौख्यभुक् दत्तकृपातः
अस्य महाग्रन्थानां पठनात् पापसंचयः स्वयं च नश्यति ।।५।।
प्रभुर्माणिको~क्कलकोटेशः
टेम्बे-स्वामी श्रीयोगीशः
स्मूर्ताः कृपासागरा जनान् आचारिण नयन्ति शुभे पथि ।।६।।
एवं दत्तगुरोर्भक्तवराः
सह्यविन्ध्यवत् तपोभूधराः
पूता तेषां स्मरणात् धरणी ये कलिकालादपि नो बिभ्याति ।।७।।
* ---------* ०००००००००*---------

१२) कलौ प्रथमं गुरूरवतरति ।
कलौ प्रथमं गुरूरवतरति।
श्रीपादवल्लभख्यातिः ।।ध्रु.।।
आपळराजः पत्नी सुमतिः
वसतः पीठापुरे दम्पती
ऋजुस्वभावौ सात्त्विकवृत्ती
तयोः खल भाग्यमुदयमेति ।।१।।
दत्तत्रेयो बभूवा~तिथिः
भिक्षार्थं श्राद्धतिथौ ऐति
श्राध्दान्नं परिवेशयति सती
ईश्वरः सुसन्तोषमेति ।।२।।
ब्रवीत 'मातस्तृप्तो~हमिति
वाञ्छा किं वद मनसि तवेति'
"वचन कुरूष्व सत्यम्" सुमतिः
आह नौ सुतस्तत्वं भवेति ।।३।।
श्रीदत्तगुरूस्तथा~स्तु वदति
सुमतिसुतत्वेन च सम्भवति
नन्दनवनमिव गृहं विलसित
समन्तात् सुखगन्धो वहित ।।४।।
व्रतबन्धः काले सम्पन्नः
विद्यया~न्वितः सुमतिनन्दनः
जनानिजनकयोः प्रफुल्लं मनः
अपि श्वः कि नु को~पि वेत्ति ।।५।।
युवावस्थमेनमाह माता
'अस्तु जात ते सुशीलकान्ता'
निःसृता हि वाक् मातृवदनतः
निशम्य स तामहो ब्रवीति ।।६।।
'परिणेष्यामि हि वधुं विरक्तिम्
नैव कामये अहमन्यां स्त्रीम्
देहि मे तपश्वरणाज्ञाप्तिम्
मनो भूक्षेमविध्दमस्ति' ।।७।।
तदा ब्रोधयन् जननीं जनकम्
श्रीपादस्तत् त्यजति स्थानम्
कुरवपुरे निवसति बहुकालम्
स्वभक्तान् कृतार्थतांन् नयति ।।८।।

*-----------*००००००००००००*-------------


१३) सिद्धः शिष्यं श्रावयती ।

सिद्धः शिष्यं श्रावयती ।
कथमभवत् रजको नृपतिः ।।ध्रु.।।

कुरवपुरे श्रीपादो वसति
सन्ध्यां कुरूते तप आचरति
कश्र्विदहो श्रीपादचरणयोर्रजको भावयुतो नमति ।।१।।

अथैकदा कंचिन्नरनाथम्
गंगाम्भसि पुत्रकलत्रयुतम्
पश्यन् नौकाविहारसुभगं तद्विभवे रजकः सजति ।।२।।

कियानहमहो भाग्यविहीनः
सदा दैन्यदारिद्र्यनिमग्नः
दूरान्मात्रं दृश्यो विभवो धिग् जीवनमेतद् भवति ।।३।।

आगतो गुरूः सरितो रोधसि
भक्तेच्छां जानन्निजचेतसि
पृच्छति वाञ्छसि राज्यपदं भो इहपरजन्मनि कच्चिदिति ।।४।।

तदा सलज्जं रजको वदति
वृद्धस्य कथं राज्यप्राप्तिः
राज्यश्रीसहवास ईश मे सुखकर आबाल्याद् भवति ।।५।।

'तथास्तु' वाणीं श्रीगुरूवदत्
रजकजीवनं समाप्तिमगमत्
विदुरानगरे पुनर्जनित्वा नृपवंश स विभूषयति ।।६।।

मनोज्ञकल्पतरूः श्रीपादः
निजभक्तान्तःकरणशान्तिदः
उत्पत्तिस्थितिलयकृदस्ति किं भक्तस्य न्यूनं भवति ।।७।।

*-----------*००००००००००००*-------------

१४) अहोभूत् अम्बामाधवसुतः ।

अहोभूत् अम्बामाधवसुतः ।
स दत्तो वृतसंन्यासस्ततः ।।ध्रु.।।

दम्पती च तौ शिवमर्चयतः
शनिप्रदोषव्रतमाचरतः
अयोनिजन्मा गृहेवातरत् लक्ष्मीकान्तः स्वतः ।।१।।

नरहरिरित्यस्य नाम सार्थम्
ज्योतिर्विद् स्वयमाह भविश्यम्
मातापितरौ प्रमोदमग्नौ स्वर्भूम्यां कुसुमितः ।।२।।

वदति न बालो मूकस्तिष्ठति
अलौकिकां लीलामनुतिष्ठाति
लोहं स्वर्णीकुरीते स्पर्थात् करंजातिविस्मिता ।।३।।

आगतास्य किल वागुपनयने
चतुर्वेदघोषस्तद्वदने
बालकृतिमथाद्भुतां च पश्यन सुजनगणो विस्मितः ।।४।।

गृह्णन् पितुर्नरहरेराज्ञाम्
पदमर्पयति त्वरितं कास्यम्
सलीलममुना गंगातीरे लघु संन्यासो वृतः ।।५।।

नरसिंहसरस्वतीति कीर्तिः
ज्ञानमगाधमिति च ख्यातिः
कुर्वन् तीर्थाटनं गुरूवरो भ्रमन् स भुवि सर्वतः ।।६।।

वाडीम् औदुंबरं गाणगम्
यतिराजः कुरूते स्वनिवासम्
उद्धरते साधून् च सज्जनान् मधुज्ञानपातः ।।७।।

गुरूः शीतलः सुगन्धपवनः
येन परिसरो परिमलपूर्णः
करूणाधाराभिः शुष्का भूरभूदंकुरान्विता ।।८।।

*-----------*००००००००००००*-------------

१५) कृष्णा पुण्यकथां कथयति ।

सानन्दं पुत्रेभ्यः कृष्णा पुण्यकथां कथयति ।
यतिरेकस्तापसः श्रूयतां मम तीरे निवसति ।।ध्रु.।।

भस्मोद्धूलिततेजःशोभा
अक्ष्णोः शशिसूर्ययोः सुप्रभा
करूणाह्रदयो शान्तमुखश्रीः स्वात्मसुखे मज्जति ।।१।।

श्रीगुरूचरणौ क्षालयाम्यहम्
कुर्वन्ति खगा मञ्जु गायनम्
शिशिरच्छायास्तरवो, वायुः श्रमजातमपोहति ।।३।।

स्नाति स नित्यं गुरूस्त्रिकालम्
करोति कालो योगसाधनम्
आत्मानन्दनिमग्नो नित्यं समग्नो नित्यं समदृष्टया पश्यति ।।४।।

गुरूदर्शनस्य लाभो नित्यम्
जीवनमपि मे तेन पावनम्
पतितोद्वारक्षमा प्रवाहे शक्तिर्मे प्राणिति ।।५।।

*-----------*००००००००००००*-------------



१६) औदुम्बरर्तीर्थे कृष्णायास्तीरे घटिता कथा ।
औदुम्बरतीर्थे कृष्णायास्तीरे घटिता कथा।
विद्यां प्राप्नोत् करवीरस्थो मूढो ब्राह्मणसुतः ।।ध्रु.।।
करवीरस्थो विप्रः सुज्ञः
अधिगतविद्वज्जनबहुमानः
मुर्खस्तस्य तनूजो जातस्तेन स शल्यान्वितः ।।१।।
सकलपुरजना निन्दत्त्येनम्
जातः पितुरसि यशोलांछनम्
दुःखमुक्तये देहत्यागे तेन हि कुमतिः कृता ।।२।।
भीलवाटिकां त्वरितं याहि
गिरिजा भुवनेश्वरी यत्र हि
मित्राण्यूचुर्विद्यामृतदा देवी सा जागृता ।।३।।
जलमत्रं विप्रसुतस्त्यजति
जपं स रात्रंदिनमनुतिष्ठति
पश्यन्ती दुष्करं व्रतमपि प्रीता न तु देवता ।।४।।
छित्त्वा जिह्वां पदयोरकरोत्
प्रतिज्ञां सुतः सकोपमकरोत्
शिरःकमलमर्पये त्वत्पदे आस्तां व्रतपूर्तता ।।५।।
*००००००००००*००००००००००००*००००००००००००

१७) अमृतोदगारा भुवनेश्वर्या मुखकमलात् निःसृताः ।

अमृतोदगारा भुवनेश्वर्या मुखकमलात् निः सृताः ।
द्वीजसुतः साक्षात्कारं गतः ।।ध्रु।।
प्रसन्नचित्ता तव तपसा~हम्
प्रेमपूरितं खलु मम ह्दयम्
आत्मोन्नतिसाधने श्रूयतां हितार्थमेका कथा ।।१।।
परे तटे श्रीकृष्णासरितः
दिगम्बरो दत्तो~स्त्यवधुतः
स्वयं राजते यतिवेषधरो लोकत्रयरक्षिता ।।२।।
उज्ज्वलभस्मविलेपितकान्तिः
दण्डं कमण्डलुं च धारयति
काषायं परिधत्ते, ह्दय भवति शान्तिरमिता ।।३।।
तत्र याहि नम गुरूपदयुगलम्
स पूरयेत् तव मनोवाञ्छितम्
चिन्तानिवारको~स्ति गुरूः किल लोकत्रयजन्मदा ।।४।।
देव्यास्तेजोवचनं श्रुत्वा
प्राप्तः कृष्णालं स तीर्त्वा
श्रीगुरूपावनचरणदर्शनात् आपारहर्ष गतः ।।५।।
कृपाकटाक्षं श्रीगुरूकरोत्
लेभे जिह्वां वक्तुमशक्नोत्
दुःखं श्रुत्वा~मृतधाराः किल गुरूः स वर्षति ततः ।।६।।
गुरूकृपया विद्याविभूषितः
सुजनमान्य आसीत् स पण्डितः
स्वयमज्ञानतमिस्त्रं नष्टं ज्ञानरविः प्रकटितः ।।७।।
*००००००००००००*०००००००००००००००* ००००००००*

१८) कुरून्दवाटयां स्थिते श्रीगुरौ वृत्तमभूददभुतम् ।
कुरून्दवाटयां स्थते श्रीगुरौ वृत्तमभूददभुतम् ।
लता न च दारिद्रयं खण्डितम् ।।ध्रु.।।
अमरापुर्यां सुव्रतविप्रः
अनुदिनमासीत् सुदैन्यमित्रः
अवाप्य भिक्षामेष कथंचित् पुपोष पुत्रं स्त्रियम् ।।१।।
घेवडालता गृहस्यांगणे
एको~स्त्याधारः स जीवने
उदरं भर्तुं करोति तस्याः शिम्बानां भक्षणम् ।।२।।
मध्याह्ने श्रीगुरौ आगते
ब्राह्मण्यस्मै भिक्षां दत्ते
किन्तु गृहांगणलतां खण्डयन् गुरूर्जगामा~श्रमम् ।।३।।
लता नैव जीवितं खण्डितम्
विप्रशिरसि वज्रमिवा~पतितम्
यतिरस्मान् सो~शपत् किमुच्चैः करोत्युरस्ताडनम् ।।४।।
समाश्वस्य विप्रः सुविवेकः
शनैः प्रशामितकान्ताशोकः
आह जगति कः शक्तो रोध्दुं प्रारब्धत्र्कीडितम् ।।५।।
जडमुत्खानितुं खातमंगणम्
जडस्य मूले प्राप्नोत् स धनम्
सुवर्णपात्रं दृष्ट्वा स्तिमितं ब्राह्मणस्य मानसम् ।।६।।
समाहूय ब्राह्मणीं समीपम्
पुरो निधाय स सुवर्णपात्रम्
उवाच 'प्रिये, लता न यतिना दारिद्रयं खण्डितम् ' ।।७।।
एत्य दम्पती गुरोः समीपम्
धनलाभं कथयतः सहर्षम्
गृहीतयतिरूपो जगदीश्वर इह जगति त्वं स्वयंम् ।।८।।
अवदत् श्रीगुरूस्तु वां सुखम्
शुध्दाचरणात् सन्तुष्टो~हम्
स्वधर्मनिष्ठाबलेन भवतं लक्ष्मीवन्तौ ध्रुवम् ।।९।।
*------------------*------------------*

१९) घटितं, दृष्टं यत्र कदा ।
घटितं, दृष्टं यत्र कदा
घटितं, श्रुतं च यत्र कदा
महिषी वन्ध्या~~स दुग्धदा ।।ध्रु.।।
गाणगापुरे गुरूः स्म वसित
अदभुतमेकैकं ननु भवति
शरच्चन्द्रिकायां प्रसृतायां सुजनरसिकचेतसि मोदः ।।१।।
क्वचिच्च निर्धनविप्रो नूनम्
महिषी यज्जीविकासाधनम्
यद्यपि वन्ध्या वहित मृत्तिकां सा ब्राह्मणस्य जीवनदा ।।२।।
याचितुमगमत् गुरूस्तदगृहम्
तं धनवन्तो~हसन् सगर्वम्
संन्यासी भ्रान्तो~स्ति वराको लभेत भिक्षां कथं कदा ।।३।।
अथ महिषी सा अकार्यकार्या
भिक्षाग्रामगतो व्दिजवर्यः
गुरूचरणौ वन्दते व्दिजसती गृहे ववर्षं कृपाजलदः ।।४।।
आह 'पत्युरागमनादूधर्वम्
दास्यामि गुरो भिक्षां तुभ्यम्'
'गृहे~स्ति महिषी; किं 'तिष्ठ' इति? ' स्वामी सतीमुवाच तदा ।।५।।
'महिषीं दोन्धि' श्रीगुरूवदत्
युवती निभृतं दोहनमरकोत्
भाग्यसुमान्वितमहो गृहं तत् महिषी वन्ध्या~~स दुग्धदा ।।६।।
गुरूः स तुष्टो पयःप्राशनात्
दारिद्रयं नष्टं विप्रगृहात्
लुप्तं रव्युदये घनतिमिरं गुरूपदलग्नं मनस्तदा ।।७।।
*०००००००००००००*०००००००००००००* ००००००००


२०) घटितम् अभिनवम् ।
घटितम् अभिनवम्
घटितम् अभिनवम्
विश्वरूपकं कलिना दृष्टम् ।।ध्रु.।।
कुमशीग्रामे त्रिवित्र्कमयतिः
यस्या~सीत् नरसिंहे प्रीतिः
नित्यमसौ निन्दति श्रीगुरूं व्याप्तदम्भमाह जगत्रिखिलम् ।।१।।
जानाति गुरूर्दि्वजस्य चित्तम्
गच्छति मिलितुं द्विजं सत्वरम्
प्रस्थानं तत्र हि गुरूशिष्यः कुमशीभूपः कुरूते सिध्दम् ।।२।।
यतिमकरोत् स हि शिबिकारूढम्
अयच्छदस्मै गजाश्वसैन्यम्
तारामण्डलमध्य इव शशी गुरूः राजते शिष्यैः साकम् ।।३।।
प्रतिदिनवत् मानसपूजार्थम्
त्रिवित्र्कमयतिर्बबन्धा~सनम्
ध्यात्वा~पि न गोचरो नृसिंहो वदति तपो मे कथं निष्फलम् ।।४।।
मानसपूजारममाणो~सौ
साक्षात्कृतवान् गुरूमूर्तिमसौ
चलति गूरूं साष्टांगं नत्वा किन्तु दृष्टवान् दृश्यमघटितम् ।।५।।
यतयो दण्डधराश्च सर्वतः
तेषु गुरूः को मुह्यति चेतः
कुण्ठितबुध्दिर्भ्रमति सर्वतस्ततो ब्रवीति स करूणावचनम् ।।६।।
'प्रभो ! स्वमायां द्रुतं संहर
नाथ ! सदगुरो ! हे लीलाधर !
स्खलितो~हं भ्रमितो~स्मि वृथा~हं चराचरं मां हसति च निखिलम्' ।।७।।
मनोवेदनां तस्य शृणोति
गुरूः स्वमायां तदा~~वृणोति
निजरूपं सुखमयं दर्शयन् कुरूते तस्य हि मनो विशुध्दम् ।।८।।
स्मयमानो गुरूरूवाच विप्रम्
प्राप्तो~स्यधुना त्वं मोक्षपदम्
प्राप्तजयस्त्वं भवचक्रोपरि मया कृतं निजभक्तोध्दरणम् ।।९।।

*०००००००००००००*०००००००००००००*००००००००


२१) प्रबुध्यते स्वप्नादिव कश्चित् ।
प्रबुध्यते स्वप्नादिव कश्चित् मृतोत्थितो द्विजसुतः
चितोत्थितोज्जीवितगार्हस्था पतिव्रता जाता ।।ध्रु.।।
कश्चित् मातापुरे द्विजवरो तस्य सुतो दत्तः
अकरोत् पुत्रविवाहं, तन्वी गृहे स्नुषा प्राप्ता
कथं ज्ञायते ललाटलेखो विरिञ्चिना लिखितः ।।१।।
गृहिणीजीवनकलिका तस्या विकासोन्मुखी यदा
पतिमदशत् क्षयसर्पस्तस्याः सा वज्रहता तदा
उदयमाययौ अरूणो हा हा अमावतीग्रस्तः ।।२।।
मृदलचन्दनक्षीणशरीरा सा पतिसेवाव्रता
पतिसेवायज्ञे काञ्चनवत् तया स्वदेहो हुतः
निनाय कथमपि जीवनमेषा दैवर्पितचिन्ता ।।३।।
वैद्या ज्योतिर्विदो मान्त्रिका हतप्रभा अभवन्
श्रूगुरूचरणी विना न शरणं सुज्ञा इत्यवदन्
नाथमानयत् गाणगापूरं भृशं शोकतप्ता ।।४।।
आशादीपकनिर्वाणमभूत् म्लानसुमा सुलता
विकासोन्मुखी कलिका तदुपरि भीमतडित्पातः
दया कठोरीभूता सुमनसि घोरवज्रघातः ।।५।।
ह्दयमश्रुभिः पूरितमस्याः परं शुष्कलोचना
अशनिदलनसामर्थ्यसंयुता सतीदुःखभावना
भीमा~मरजासरित्प्रवाहो दुःखद्रवयुक्तः ।।६।।
सहगमनार्थं सिध्दा जाता मृतपत्या सा सती
निवारयन्ति ग्रामीणास्तां सुदृढा तस्या मतिः
द्रष्टं तत्कौतुकमाकाशे निर्जरसंघाः स्थिताः ।।७।।
अग्निप्रवेशपूर्वक कर्तुं गुरूमुर्तेर्दर्शनम्
अश्वत्थतलं प्राप्ता साध्वी नन्तुं गुरूपदयुगम्
'सौभाग्यवती भव' गुरूवदत् सर्वजनो विस्मितः ।।८।।
प्रेमाद्री श्रीसदगुरूदृष्टिः कलेवरे पतिता
प्रत्यंगमभूत् प्राणसंचरो निबिडतामिस्त्रा गता
साक्षात्कारो गुरूप्रसादात् ननु भास्कर उदितः ।।९।।

*०००००००००००००*०००००००००००००*००००००००

संस्कृत कविता-
२२) कालगतेः तत्प्रचण्डचक्रं परिभ्रमति सततम् ।
कालगतेस्तत् प्रचण्डचक्रं परिभ्रमति सततम।
भ्रणणात् मुञ्चति कमापि न जनम् ।।ध्रु.।।
कल्पकोट्य आयुर्देवानाम्
अन्ते ग्रसते कालो नितराम्
समर्थनापि क्षमते नो खुल चक्रं तत् निशितम् ।।१।।
को वा जनकः कस्य च जननी
पतिश्च कस्याः कस्य च पत्नी
विरतजीवने प्रेमबन्धनं याति मृगजलत्वम् ।।२।।
कर्म गर्भवासस्य कारणम्
नाशस्तस्य हि मृत्युना समम्
सुखदुःखफलं तथैव लभते यथा पूर्वसुकृतम् ।।३।।
खगास्तरौ ते मिलन्ति साकम्
नयन्ति कालं कमापि च सुसुखम्
स्वेन पथा गच्छन्ति; बन्धनं नश्यति तत् क्षणिकम् ।।४।।
जलप्रवाहे यदाकदाचित्
समायान्ति काष्ठानि कुतश्चित्
दशसु दिशास व्यपेत्य यान्ति क्षणात् प्रवासार्थम् ।।५।।
पांचभौतिको देहो ज्ञेयः
चर्ममांसमज्जा~स्थिमयो यः
मलबध्दं क्षणिकं च शरीर किं तत् संग्राह्यम् ।।६।।
नाशि शरीरं कथं शोकः
मृत्युयोगतः वा मुक्तः कः
शान्तमुदितचित्तं स्यादायुः गुरूचिन्तनयुक्तम् ।।७।।
*००००००००००*००००००००००००*०००००००००००

२३) ईश्वरः स एव साध्वीकृते ।
देवविप्रसाक्षिकं पूरूषं यम् अनन्यं वरयते।
ईश्वरः स एव साध्वीकृते ।।ध्रु।।
सतीजीवनं तृणं पतिम् ऋते
सुखयितुम् एनं सदैव यतते
पुष्पं भूत्वा स्वनाथह्दयं सुगन्धितं कुरूते ।।१।।
पत्युः कार्ये मन्त्री भवतु
भोजयितुं तं माता भवतु
रम्भावत् प्रीत्या सुखयित्वा शयने रञ्जयते ।।२।।
कान्तसंगमे तनुं भूषयेत्
प्रोषितभर्तरि सुखानि त्यजेत्
सुखे~थवा दुःखे वा पत्युः सखीव संगच्छते ।।३।।
सेवा श्वश्रूश्वशुरकृते~स्तु
ननान्दृदेवरयोर्मोदो~स्तु
सदैव सदने दक्षा स्थित्वा अतिथिं तोषयते ।।४।।
प्रागुत्थाय प्रभाते स्वयम्
रंगावलिसंमार्जनादिकम्
समाधानवृत्त्या कुवीणा स्वगृहं शोभयते ।।५।।
शीलवती स्त्री नाथभूषणम्
भाग्यं प्रमार्ष्टि तद्गृहांगण्म
पतिव्रतायाः पवित्रचरणौ देवाः प्रणमन्ते ।।६।।
*००००००००००००*००००००००००००*०००००००००००

२४) त्रिसेरकमहं धान्यमानयम् ।
त्रिसेरकमहं धान्यमानयम्
किंन्तु सहस्त्रजनैस्तद् भुक्तम्
श्रीगुरूणेदं कृतं कौतुकम् ।।ध्रु.।।
श्रीगुरूरासीद् गाणगनगरे
इच्छा जाता मदीयान्तरे
समर्प्य भिक्षां यतिवर्येभ्यः स्वजीवितं सफलं कर्तव्यम् ।।१।।
बध्द्वा पोट्टलिकां निजपृष्ठे
द्रुतमागच्छम् गुरूपदनिकटे
गुरोर्दर्शनात् काशीपुण्यं जातं मोदारामविकसनम् ।।२।।
समाराधना प्रचलित नित्यम्
भिक्षार्पणं च गुरवे नित्यम्
कथं मदीया सेवा भवतात् इति दीनस्य मनसि मे कूटम् ।।३।।
तृप्तिभोजने भुक्त्वा नित्यम्
अहं स्वचेतसि अतृप्त आसम्
ज्ञात्वा मम दुःखं श्रीगुरूणा पृष्टं मे क्षेमं मे कुशलम् ।।४।।
भवेत् ब्राह्मण श्वः तव भिक्षा
भवतु सुफलिता खलु ते कांक्षा
निमन्त्रयस्व मठे ग्रामस्थान् इति मां गुरूराह सुधावचनम् ।।५।।
गुरोराज्ञया निमन्त्रणमभूत्
चिन्ताग्रस्तं मने ममा~भूत्
अल्पं कथमलं भवेत् जने लाघवं गमिष्याम्यहम् ।।६।।
क्षुद्रा पोट्टलिका~~हुः केचन
अलं तृप्तये कथं कस्यचन
आहुः केचन 'वदति गुरूक्त्या' मिलेत् तादृशं भजेम कवलम् ।।७।।
अन्नं तावत् जांत सिध्दम्
आहूय श्रीगुरूणोक्तो~हम्
आवृणु शाटिकया त्वं पाकं प्रोक्षय तीर्थं कमण्डलुस्थम् ।।८।।
परिवेषितमन्नं पात्रेषु
ग्रामीणा भुञ्जते पंक्तिषु
अन्नं शिष्टं सकलास्तुष्टाः श्रूगुरूकृपया कूटं सुलभम् ।।९।।
न को~पि गाणगपुरीनिवासः
ऋते भोजनात् कृतोपवासः
पाकस्थालीष्वद्भुतमेतत् नासीत् किल्ल परिसमाप्तमन्नम् ।।१०।।
सरिज्जलचरान् तृप्तिं नीत्वा
गुरोराज्ञया स्वयमपि भुक्त्वा
गुरूकरूणासेचनात् सुतृप्तं जीवितमासीदहो मदीयम् ।।१।।
यस्य कुबेरो धनपालः स्यात्
न्यूनं तद्भ्कतस्य कथं स्यात्
उदिते सूर्ये तमसो नाशः लेभे सकलमनोरथसुफलम् ।।१२।।
*००००००००*०००००००*००००००

२५) भवति खलु वन्ध्या पुत्रवती।
वर्षति किल गुरूकृपावारिदे शुष्कतरूर्विकसति ।
भवति खलु वन्ध्या पुत्रवती ।।ध्रु.।।
सोमनाथविप्रस्य सुपत्नी
गंगानाम्नी सुशीलगृहिणी
सश्रध्दं सा श्रीगुरूपदयोः सेवाम् आचरति ।।१।।
कदाचिद् गुरूः कुरूते पृच्छाम
चित्ते धरसे वद काम् इच्छाम्
गुरोरमृतमिव वचनं तस्याः साध्वी सा वदति ।।२।।
देवं चा~श्वत्थं च पूजये
क्लिश्ये खिद्ये सुतप्राप्तये
अपि प्रभो जन्मनि अन्यस्मिन् स्यां वा पुत्रवती ।।३।।
श्रीगुरूवदननात रवा निःसृताः
शब्दा न च मधुबिन्दवः स्रुताः
इह जन्मनि कन्यासुतिनी स्याः पतिव्रते युवति ।।४।।
अर्च संगमे तरूमश्वत्थम्
द्रुतं भवेत्तम पूर्णमीप्सितम्
व्रतकथा हि सा प्रभुं सेवते गुरूमूर्ति स्मरति ।।५।।
तृतीये~ह्नि सा स्वप्नं पश्यति
द्विजः सुवार्तां तस्यै कथयति
प्रदक्षिणीकुरू गुरूं सप्तधा सुभगा स्यात् भवती ।।६।।
प्रातः सा गुरूचरणौ मनति
सप्रदक्षिणं नीराजयति
फलद्वयं श्रीगुरूश्व तस्यै प्रसादमर्पयति ।।७।।
फले भक्षिते, जांत कुतुकम्
दधार वृध्दा नवं च गर्भम्
नवमे मासे सुतां प्रसूते, जनो~द्भुतं वदति ।।८।।
काले सुतिनी; घटितमद्भुतम्
सोमनाथ इह करोत्युत्सवम्
मुकुलिताश्व खलु सुयशोवृक्षाः सौगन्ध्यं प्रसरति ।।९।।
अघटिताद्भुता श्रीगुरूलीला
गुरोरधीना सिध्दिः सकला
वेदपुराणम् गुरूगुणगाने सुश्रान्तं भवति ।।१०।।

*००००००००००००*०००००००००००००*०००००००००००

२६) भीमा~मरजा- संगमस्थले कुतुकमहो घटितम् ।
भीमा~मरजा- संगमस्थले कुतुकमहो घटितम् ।
शुष्कं काष्ठं श्रीगुरूकृपया नवपल्लवयुक्तम् ।।ध्रु.।।
नरहरिविप्रः कुष्ठग्रस्तः
भारभूतजीवन- सन्त्रस्तः
व्याधिविमुक्तो न बहुभिरगदैर्नष्टं न च दुष्कृतम् ।।१।।
दर्शनादहो सत्पुरूषाणम्
भवति प्रशमो भवरोगाणाम्
तेन गाणगापुरमेत्य शिरः श्रीगुरूपदयोर्नतम् ।।२।।
गुरूपदाब्जविनिवेदितव्यथः
मोचय दुःखात् हे गुरूमातः
सुखकरमवद्त विप्रमुपायं करूणाब्धिर्दुःखितम् ।।३।।
सरित्संगमे शुष्कं काष्ठम्
रोपय; जलेन योजय नित्यम्
पल्लवोद्भवे व्याधिर्नश्येत् श्रद्धां कुरू सन्ततम् ।।४।।
गुरूपदयोः कृत्वा दृढभावम्
विप्रो जलेन सिञ्चति काष्ठम्
'अशक्योक्तिवंचितो~सि गुरूणा' ब्रुवन्ति लोका हि तम् ।।५।।
तेषां गणयन् न स उपहासम्
भजन् श्रध्दया श्रीगुरूवचनम्
काष्ठं सिञ्चन् विप्रो नियतं कुरूते व्रतमविरतम् ।।६।।
अकस्मादहो जातमभिनवम्
शुष्कं काष्ठं पल्लवान्वितम्
ह्ष्टो विप्रः स्तिमितो लोकः कुतुकं साक्षाकृतम् ।।७।।
कल्पतरूर्गुरूमूर्तिभीति
तमाश्रितः सुखशान्तिं वरयति
ये तं भजन्ति भक्त्या तेषाम् अमरपदं शाश्वतम् ।।८।।
*००००००००००*००००००००*००००००००


२७) कठिनतरा गुरूसेवा भवति ।
कठिनतरा गुरूसेवा भवति।
सायंदेव स्वयमनुभवति ।।ध्रु.।।
वदन्ति सिध्दास्त्वत्पूर्वो~यम्
त्यक्त्वा सकलप्रपंचमोहम्
गुरूपदीलनस्तदीयसुकृतैः पुण्यसंचयस्तव समुदेति ।।१।।
सायंदेवो गुरूं याचते
सदा भवत्सेवा~स्तु मत्कृते
'गहने सेवाधर्माचरणे किं श्राम्यसि ' तं गुरूश्व वदति ।।२।।
तत्प्रबलच्छां गुरूः पश्यति
अनिशं तत्सेवां गृह्णाति
परीक्षितुं तन्निष्ठां प्रखरां सकृत् श्रीगुरूर्मनसि करोति ।।३।।
संगमे~स्ति शिष्यो गुरूसहितः
भीषणः सपादि झञ्झावातः
तडिन्नर्तधीरापतनैर्घनतमसा ननु यमो बिभेति ।।४।।
श्रीगुरूपाश्र्वे शिष्यास्तिष्ठन्
गुरूं च झञ्जझावातात् रक्षन्
प्रावृङ्वातं तीव्रं सहते श्रममालस्यं न च दर्शयति ।।५।।
वदति गुरूः शीतं भयंकरम्
अग्निमानय ग्रामात् त्वरितम्
प्रयाति भक्तस्तमसि; विश्रमः श्रीगुरूसेवा तं किल रमयति ।।६।।
प्रत्यागच्छति अग्निमानयन्
अहीन् समन्तात् बिभेति पश्यन्
गुरूं स्मरन्नाक्रामति मार्गं 'धाव सद्गुरो' स्वमनसि पठति ।।७।।
संगमस्थलं यदा~भिधावति
वेदमन्त्रघोषं स शृणोति
न को~पि तत्रा~सीत् गुरूं विना को नु वेदमन्त्रान् घोषयति ।।८।।
अद्भुतं स तत्रैकं पश्यति
नमन्ति सपीः श्रीगुरूं प्रति
नष्टमकस्माद् वातदुर्दिनं विधुर्गगनशोभां वर्धयति ।।९।।
वदति सद्गुरूः सायंदेवम्
सेवा किं तव रूचये एवम्
आह स आधारो~सि मे गुरो ! तव सेवा मंगलं तनोति ।।१०।।
समाश्वासयति ततो गुरूस्तम्
सविधे कुरूते निरन्तरं तम्
वर्षाति तस्मिन् कृपामृतमहो किमु भाग्यस्तरूस्तेन न विकसति ।।११।।


*००००००००००*००००००००*००००००००

संस्कृत कविता-
२८) तन्तुको महान् स गुरूभक्तः ।
तन्तुको महान् स गुरूभक्तः
तेन खलु भाग्यनिधिः प्राप्तः ।।ध्रु.।।
सदैव कुरूते गुरूपदनमनम्
स्मरणे ध्याने रतं जीवनम्
सुखखनिस्तस्य गुरूर्दाता ।।१।।
ज्ञातिजना एकत्र मिलन्ति
शिवरात्रौ श्रीशैल्यं यान्ति
प्राह स स्वगुरूरूमानाथः ।।२।।
शिवरात्रौ पृष्टवान् गुरूस्तम्
अप्यालोकितवान् श्रीशैल्यम्
वदति सः त्वमेव मे त्राता ।।३।।
'पिधेहि नयने' गुरूर्वदति तम्
'एष पूरयामि ते कामितम्'
किं गुरोः भक्तो न्यूनयुतः ? ।।४।।
सपादि प्राप्तः पर्वतशिखरम्
गुरूरूपदिशति 'समाचार धर्मम्'
अवगाहने ग्रामिमेलनम् ।।५।।
अलक्षितस्त्वं किमिहा~यासि
के~प्याहुः किं नः वञ्चयसि
स मनुते गुरूवरदानमिदम् ।।६।।
क्षौरस्नानोत्तरं दमनकम्
मल्लिकार्जुने करोत्यर्पणम्
पश्यति तत्र गुरोध्यार्यानम् ।।७।।
स्थानमहत्तवं गुरूर्वदति तम्
प्रत्यागच्छति तेन सह मठम्
प्लावितं भक्त्या तद्ह्दयम् ।।८।।
वदन्ति सर्वे 'क्षौरं कस्मात् ?'
आह 'शैल्यगिरिगमनकारणात्'
स यच्छति दमनकप्रसादम् ।।९।।
प्रत्यायान्ति शनैश्व यात्रिकाः
तन्तुकयात्रास्तवनकौतुकाः
ग्रामिणां चित्तमतिस्तिमितम् ।।१०।।
गुरूसुतस्य किंचित् ना~प्राप्यम्
सकल-सिध्दिदं गुरूपदयुग्मम्
गुरूपदौ अखिसुखस्थानम् ।।११।।
*००००००००*०००००००००*००००००००

२९) चिरमविद्यातमे लुठित एवा~स्म्यहम् ।

चिरमविद्यातमे लुठित एवा~स्म्यहम् ।
तव गुरो कीर्तने न तु मनो मे रतम् ।।ध्रु.।।
नवसु माससु मया हन्त गर्भे स्थितम्
तीव्रदुर्गन्धसहलुण्ठनं कण्ठितम्
जन्मतस्तव न मे ज्ञानलाभो~र्चनम् ।।१।।
कामतो यौवने धर्ममपि ना~स्मरम्
धनमदेना~रमे कान्ताया संमितम्
प्रवयसां धर्षणम्; न च कृतं साधनम् ।।२।।
अतिवयो बाधते, न च शरीरे बलम्
बहु गदैः कवलतिः कर्म न च साधितम्
त्रिविधतापानलैः प्लुष्टह्दयो~स्म्यहम् ।।३।।
त्वं हि माता पिता त्वं हि गुरूदेवता
देव सविता त्वमज्ञानतमनाशतः
तारकं त्वां विना वेद्यि ना~त्यं ध्रुवम् ।।४।।
तव पदौ सद्गुरो शरणदौ मे सदा
शान्तिदो भक्तिदो भव कृपालुः सदा
नाविक! त्वं हि मां नय भवाब्धेः परम् ।।५।।

*००००००००००*०००००००*०००००००००००

३०) अद्भुता घटितेयं किल कथा ।
नानालीलाधारिसद्गुरूः अस्ति गाणगस्थितः ।
अद्भुता घटितेयं किल कथा ।।ध्रु.।।
गुरूद्वादशी महापर्वणी
सुभक्तपूर्णा गाणगावनी
भारान्दोलितमनसा भक्तैः सांगं गुरूरर्चितः ।।१।।
एकैको दीपावलिसुदिने
गुरूं निमन्त्रयते निजसदने
परस्परमविज्ञाप्य सप्तभिः गुरूराहूतो मिथः ।।२।।
स्थलेषु सप्तसु भक्ताः सप्त च
निमन्त्रयन्ते सद्गुरूमेव च
मनस्यकुर्वन् भाग्यमहो नः जीवितस्य सांगता ।।३।।
दीपावल्यां स्थलेषु सप्तसु
गतः श्रीगुरूर्भक्तगृहेषु
मठे गाणगापुरे~पि तिष्ठति साधितनित्यव्रतः ।।४।।
कार्तिक्याम् अखिला गुरूभक्ताः
एकादश्यां गाणगस्थिताः
ते~पि सप्तभक्तास्तेष्वासन् मनासि भृशं प्रमुदिताः ।।५।।
मनसि च तुष्टः को~पि कथयति
पर्व मद्गृहे गुरूराचरति
वस्त्रमर्पितं मयेदमस्मै सिध्दिरहो मे~ङ्किता ।।६।।
एवं भक्ता वदन्ति सप्त हि
जनाय वस्त्राणि दर्शयन्ति हि
परन्तु मठवासिनो हसन्ति वदन्ति वितथा कथा ।।७।।
सुज्ञ आह तान् जनश्व कश्वित्
न वित्थ यूयं गुरूं कदाचित्
येन त्रिभुवननाटयं रचितम् तस्यैषा चतुरता ।।८।।
सर्वे~नु मठे महोत्सवरताः
गुरोरभिनवं यशो गृणन्तः
गुरोः स्मरन्तः कथाम् अद्भुतां मुदा स्वगृहमागताः ।।९।।
गुरूः प्रपूर्णः कृष्णो जलदः
भक्तसमूहश्चातकबन्धः
भवव्यथा भक्तांनां नश्यति कृपावारिवृष्टितः ।।१०।।

*००००००००*००००००*०००००००००


३१) कृपाजलमुचा वृष्टमहो !
कृपाजलमुचा वृष्टमहो ।
क्षेत्रं फलितं विन्दति तस्मात् कृषकः सुखदं ग्रासमहो ।।ध्रु.।।
याति संगमस्थलमायाति
तदा सादरं शूद्रो नमति
नित्यमार्गनात् अजानात् स हि यथार्थसुखमार्गमहो ।।१।।
दिनक्रममिसं गुरूः स पश्यति
दृष्ट्वा श्रद्धां मनसि च तुष्यति
आह कृषीवलगृहस्य शिखरात् ध्वजदैन्यं किल पतितमहो ।।२।।
एकदा गुरूः पृच्छति कृषिकम्
वद किं कष्टं भजसि मदर्थम्
'इच्छां वद' इति शूद्रमानसे स्रुतमानन्दस्त्रवणमहो ।।३।।
आह 'मनो मे किमपि न कांक्षति
अज्ञकिंकरस्त्वयं जनो~स्ति
धनं च धान्यं भवतु सुविपुलं मनसि न चा~न्यत् स्फुरणमहो ' ।।४।।
"हिताय ते कथयामि; शृण त्वम्
लुनीहि सर्वं क्षेत्रे सस्यम्'
गुरूवचनं न हि, सद्गुरूवदनात् अमृतबिन्दुनिष्क्रमणमहो ।।५।।
तस्य श्रध्दा सद्गुरूवचने
शीघ्रं सज्जः स सस्यलवने
स्त्रीपुत्राः शोचन्ति वदन्ति दग्धं बत सुखकुञ्जमहो' ।।६।।
सकलपुरजना वारयन्ति तम्
विना गुरूं न स शृणोति चान्यम्
लेखति सशपथं कृषिस्वामिनं ददीय तव धान्यकरमहो ।।७।।
अलुनात् सस्यं यदा स कृषिकः
उपाहसन् तं किल नागरिकाः
तेन तस्य सुतकान्ताह्दयं शतक्षतं दुर्व्यथितमहो ।।८।।
झंझावातो ततः पीडयति
अतिवृष्टया सर्व च निमज्जति
एवमकाले वृष्टिकारणात् धान्यांकुरं विगलितमहो ।।९।।
तस्य क्षेत्रे कृषीवलस्य हि
नवा अंकुरा भो स्तम्बेषु हि
शतगुणितं सस्यमभूत् क्षेत्रे भाग्यातिथिसत्करणमहो ।।१०।।
द्विगुणं खण्डं भर्त्रे यच्छति
धान्यं दीनजनेषु वितरति
स्त्रिया लुठति गुरूपदयोर्दिशि दिशि सुखसौरभसंचरणमहो ।।११।।
करूणाम्बुनिधिः श्रीगुरूरास्ते
स्वभक्ते कृपा-वृष्टिं कुरूते
भावदलैर्भक्ताश्च कुर्वते स्निग्धसद्गुरोस्तुलनमहो ।।१२।।

*०००००००००००००*०००००००००००००*००००००००

संस्कृत कविता-
३२) बेदरस्य यवननृपो गुरूपदयोरनुरक्तः ।
बेदरस्य यवननृपो गुरूपदयोरनुरक्तः ।
भवव्याधिभयमुक्तः ।।ध्रु.।।
द्विजे च देवे श्रध्दा पूर्वजन्मसंस्कारात्
स्फोटक उत्थित ऊरौ नृपतेस्तस्या~कस्मात्
भिषग्भैजैर्बहुभिः व्याधिरस्य न च शान्तः ।।१।।
यदा स पृच्छति सुजनान् सूचयान्ति ते मार्गम्
सुपुरूदर्शनयोगात् महद् विनश्यति दुःखम्
वसति पुण्यपुरूषः किल गाणगभवने पूतः ।।२।।
संगमे ददर्श गुरूं धृतपावनयतिवेषम्
गृहणाति स नम्रनृपो तत्पावनयतिवेषम्
पुरः स्थितो बध्दकरो भूपवरो विनययुतः।।३।।
दृष्टो गुरूणा पृष्ट; 'कुतो रजक भवसि त्वम्'
अमृतवचस्तत् श्रुत्वा स्फुटति नृपस्मृतिकमलम्
मुञ्चति खलु मोदास्त्रान् पूर्वजन्मस्मृतियुक्तः।।४।।
'गण्डः पीडयति भृशं; दुःखं हर' वदति नृपः
'वदसि किमर्थमसत्यम्' इति हसति गुरूः सकृपः
'गण्डं दर्शय' , '' `'कुतः नृप आश्चर्यग्रस्तः ।।५।।
'सदय गुरो, मम सदनं त्वमलंकुरू' वदति नृपः
कान्तासुतराजश्रीम् अवलोकय भोः सकृपः
'ओम्' इति उक्तं गुरूणा, नृमणिरसौ सन्तुष्टः ।।६।।
'सुशोभितं कुरूत पुरम्' नृप आज्ञापयति जनान्
शिबिकायां पुरवीथिषु सदयं गुरूमाह्तवान्
सुवाद्यानि निनदन्ति च धनार्पणं गुरूमभितः ।।७।।
आस्तीर्णा राजपथे पुष्पसदृशमृदुलकुथाः
पतितोध्दारकचरणे तेषु पावने पततः
रत्नखचितसिंहासनमण्डितो~स्ति गुरूराप्तः ।।८।।
सद्भावेना~र्तिक्यं कुर्वन्ति च नृपकान्ताः
प्रणमन्ति च गुरूचरणौ सकला ओप्तेष्टसुताः
लुठति नृपो गुरूपदयोः गुरूमश्रुभिरर्चयिता ।।९।।
'पापो~हं तारय माम्' नृपः सगद्गदं वदति
तस्य पुनर्भनचक्रं कृपाघनो वारयति
सुपरिमलो गुरूयशसो वदति दिग्नभोव्याप्तः ।।१०।।
*००००००००००*००००००००००००*००००००००००

३३) समापितवान् गुरूरवतारम् ।

वदति चराचरमेकमेव खलु अतिकरूणोद्गारम् ।
'समापितवान् गुरूरवतारम् ' ।।ध्रु.।।
दत्तगुरूः यतिवेषे विलसति
त्रिभुवनजनहितकरणे विचरति
उपदेशाचरणाभ्यां बोधति जीवनस्य सारम् ।।१।।
सज्जमासनं दिव्यसुमानाम्
तिष्ठति तदुपरि गुरूश्च जगताम्
सरित्प्रवाहो वहति च पृष्ठे योगिजनाधारम् ।।२।।
उत्तरायणे माघे मासे
पवित्रसमये प्रतिपद्दिवसे
दत्तगुरूः स्वानन्दगृहमयात् समाप्य अवतारम् ।।३।।
शनैरासनं पुरतो गच्छति
धूसरं गुरोर्ध्यानं तिष्ठति
लुप्तं तेजो; लक्षमुखेभ्याः हा रूदितमपारम् ।।४।।
भक्ताः सुजनास्तथा पुरजनाः
मिलन्ति खलु अश्रुफुल्लनयनाः
करूणरसः क्लेदयति गाणगे निखिलं प्राकारम् ।।५।।
उरसि वेदना वृक्षलतानाम्
अगणितदुःखं भवति दिशानाम्
शशिरवितेजो नष्टं च तयोर्मनः सान्धकारम् ।।६।।
सुमनचतुष्कं सरिदुद्भूतम्
शिष्यास्तद् गृहणते प्रसादम्
परस्परं गायान्ति गुरूयशः प्रमृज्याश्रुधारम् ।।७।।
भक्तजनास्ते व्यथिता विकलाः
मन्दं प्रत्यायान्ति च सकलाः
मूर्तिगुरूमहो पश्यन्ति मठे दिव्यं साकारम् ।।८।।
शनैरनुदिनं तथा~हनुमासम्
लोकजीवनं स्थिरशान्ततरम्
शश्वद् अनुभवन् आस्ते भक्तो गुरूसाक्षात्कारम् ।।९।।
।।ऊँ श्रीरस्तु ।। श्रीगुरवे नमः ।।
।।श्रीसद्गुरूपदार्पणमस्तु ।।
।।समाप्तम् ।।
*०००००००००*००००००००००*००००००००

३४ ।।मया~सौ दृष्टो गुरूदत्तः ।।
ब्रह्मा विष्णुस्तथा महेश्वर स्थिता च मम पुरतः ।
मया~सौ दृष्टो गुरूदत्तः ।।ध्रु.।।
गोस्वरूपिणी माता तिष्ठति
पुरश्च वत्सौवलितं पश्यति
कृतज्ञताशुनकश्च वराको गुरूपदयोः पतितः ।।१।।
विचरत् शुभदं तव पदयुगलम्
मन्दिरायते निखिलं गेहम्
मन्दिरशिखरं ह्दयविहंगम उड्डयते सुखतः ।।२।।
त्वया~त्र रचितो निखिलो विभवः
अभूत् कृतार्थो ममैष जीवः
औदुम्बरमेतत् पुरं त्वया सृष्टं मां परितः ।।३।।

*०००००००००*००००००००००*००००००००




















































































































































































































































































































































































































Comments

Popular posts from this blog

१--लोकशाहीतील मूळ संकल्पना आणि तत्त्वे प्रश्न १ ते १५

एक लोकशाहीतील मूळ संकल्पना आणि तत्त्वे १ . लोकशाही म्हणजे काय ? आपण समाजात राहतो . आयुष्यभर समाजातील वेगवेगळ्या घटक संसथाचे सदस्य म्हणून वावरतो . आपले कुटुंब , आपला शेजार , एखादे मंडळ , कार्यालयीन संघटना , जाती , प्रांत , राष्ट्र इत्यादी संस्थाचे आपण सभासद असतो आणि संस्थेसाठी म्हणून कित्येक निर्णय घेतो - निदान मत मांडतो . संस्थेशी ऋणानुबंध ठेवतो . संस्थेचे ध्येय काय आहे , कोणत्या नियमांतर्गत ते गाठायचे आहे , कुणावर जबाबदारी टाकायची आहे , फायदे मिळवायचे आहेत ते कुणासाठी अशासारख्या सामूहिक निर्णयांचे स्वरुप आणि आपण आपल्या वैयक्तिक प्रश्नांसाठी वैयक्तिक जबाबदारी घेतलेल्या निर्णयांचे स्वरुप वेगळे असते . सामूहिक निर्णय जास्तीत जास्त योग्य आणि न्यायोचित असणे हे लोकशाहीचे खरे मर्म आहे , यासाठी निर्णय प्रक्रियेत भाग घेण्याचा सर्वांना समान हक्क असावा आणि तो त्यांना योग्य त - हेने बजावता यावा हे आदेश लोकशाही व्यवस्थेचे लक्षण मानले जाते . सामूहिक निर्णय प्रक्रियेवर लोकमताचे नियंत्रण आणि सर्वांना समान हक्क हे लोकशाहीचे दोन निकष ठरतात . कोणत्याही लहान मोठया संस्थेत हे दोन निकष पाळले जात

३ -- पारदर्शी, उत्तरदायी सरकार प्रश्न ३६ ते ५०

तीन पारदर्शी , उत्तरदायी सरकार 36. लोकशाहीसाठी पारदर्शी सरकार महत्वाचे का ? लोकशाही पारदर्शी शासन ही मूलभूत गरज आहे . सरकार दरबारातील माहिती अचूकपणे आणि वेळच्या वेळी लोकांपर्यंत पोचत राहिली तरच कार्यकारी मंडळाच्या योग्य अयोग्य निर्णयांची , तसेच , कारवाईची जबाबदारी निश्चित ठरवता येते , त्यावरुनच आपण निवडून दिलेल्या लोकप्रतिनिधीने चांगले काम केले किंवा नाही . हे लोक ठरवू शकतात . सरकार चालवण्याचा खर्च जनताच करत असल्याने , आपल्या पैशांचा विनियोग कसा केला जातो ही माहिती लोकांना मिळणे किंवा त्यांच्या वतीने वृत्तपत्रांनी मिळवणे हा जनतेचा मूलभूत हक्क आहे . पुष्कळदा अशी माहिती मेहेरबानी म्हणून दिली जाते किंवा खर्चिक आणि वेळखाऊ मागणी आहे अशी टीका करुन टाळाटाळ केली जाते . पण आपण हे विसरतो की सरकारी माहिती जाहीर होण्याने उलट सरकारची कार्यक्षमता वाढण्यास मदतच होते . कारण कुठे फालतू खर्च झाला , कुठले धोरण चुकले , कुठे भ्रष्टाचाराला वाव मिळाला इत्यादी बाबींवर लोकांना नेमके बोट ठेवता येते आणि पढे त्याच त्या होणा - या चुका टाळता येतात . नागरी स्वातंत्र्य जपण्यासाठी सुद्धा शासकीय माहिती लोकापर