Skip to main content

Posts

Showing posts from April, 2017

श्री दत्तात्रेय कविता १ ते ३४

कवि सुधांशु द्वारा लिखित मराठी दत्त-गीतांचा संस्कृत अनुवाद (तपासणे -- अश्विनीने टाइप केले) संस्कृत कविता - १ १ ) दत्त - दिगम्बर इष्ट - दैवतम् धुमाळी । दत्त - दिगम्बर इष्ट - दैवतम् । विराजते मेमह्दये नित्यम् ।।ध्रु . ।। अनसूयायाः सत्त्वम् अदभुतम् त्रिभिश्व देवैर्वृतं शिशुत्वम् । चारूस्त्रिमूर्तिरवतारो ~ यं त्रिभुवनकीर्तिः रक्षित दीनम् ।।१।। त्रीणि शिरांसि च तत्करषट्कम् विलसति वदने मधुर - सुहास्यम् । जूटशिरः पादुकापदाब्जो भस्मविलेपितकान्तिर्नूनम् ।।२।। दृष्ट्वा वत्सलसुन्दरमूर्तिम् हर्षाश्रुजलं स्नपयति दृष्टिम् । यान्त्युदयं किल सात्तिवकभावाः शनैश्व विलयं याति ममत्वम् ।।३।। गुरूर्योगिवर प्रभुरयोगिवर - अनुसूयासुत -